Sri Adi Varahi Stotram – श्री आदिवाराही स्तोत्रम Sanatana Dharmam సనాతన ధర్మం

हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Varahi Sahasranama Stotram – श्री वाराही सहस्रनाम स्तोत्रम्


देव्युवाच ।
श्रीकण्ठ करुणासिन्धो दीनबन्धो जगत्पते ।
भूतिभूषितसर्वाङ्ग परात्परतर प्रभो ॥ १ ॥

कृताञ्जलिपुटा भूत्वा पृच्छाम्येकं दयानिधे ।
आद्या या चित्स्वरूपा या निर्विकारा निरञ्जना ॥ २ ॥

बोधातीता ज्ञानगम्या कूटस्थानन्दविग्रहा ।
अग्राह्यातीन्द्रिया शुद्धा निरीहा स्वावभासिका ॥ ३ ॥

गुणातीता निष्प्रपञ्चा ह्यवाङ्मनसगोचरा ।
प्रकृतिर्जगदुत्पत्तिस्थितिसंहारकारिणी ॥ ४ ॥

रक्षार्थं जगतो देवकार्यार्थं वा सुरद्विषाम् ।
नाशाय धत्ते सा देहं तत्तत्कार्यैकसाधकम् ॥ ५ ॥

तत्र भूधरणार्थाय यज्ञविस्तारहेतवे ।
विद्युत्केशहिरण्याक्षबालाकादिवधाय च ॥ ६ ॥

आविर्बभूव या शक्तिर्घोरा भूदाररूपिणी ।
वाराही विकटाकारा दानवासुरनाशिनी ॥ ७ ॥

सद्यः सिद्धिकरी देवी घोराद्घोरतरा शिवा ।
तस्याः सहस्रनामाख्यं स्तोत्रं मे समुदीरय ॥ ८ ॥

कृपालेशोऽस्ति मयि चेद्भाग्यं मे यदि वा भवेत् ।
अनुग्राह्या यद्यहं स्यां तदा वद दयानिधे ॥ ९ ॥

ईश्वर उवाच ।
साधु साधु वरारोहे धन्या बहुमतासि मे ।
शुश्रूषया समुत्पन्ना भक्तिः श्रद्धान्विता तव ॥ १० ॥

सहस्रनाम वाराह्याः सर्वसिद्धिविधायि च ।
तव चेन्न प्रवक्ष्यामि प्रिये कस्य वदाम्यहम् ॥ ११ ॥

किन्तु गोप्यं प्रयत्नेन संरक्ष्यं प्राणतोऽपि च ।
विशेषतः कलियुगे न देयं यस्य कस्यचित् ।
सर्वेऽन्यथा सिद्धिभाजो भविष्यन्ति वरानने ॥ १२ ॥

ओं अस्य श्रीवाराहीसहस्रनामस्तोत्रस्य महादेव ऋषिः अनुष्टुप् छन्दः श्रीवाराही देवता ऐं बीजं क्रों शक्तिः हुं कीलकं मम सर्वार्थसिद्ध्यर्थे जपे विनियोगः ।

ओं वाराही वामनी वामा बगला वासवी वसुः ।
वैदेही वीरसूर्बाला वरदा विष्णुवल्लभा ॥ १३ ॥

वन्दिता वसुदा वश्या व्यात्तास्या वञ्चिनी बला ।
वसुन्धरा वीतिहोत्रा वीतरागा विहायसी ॥ १४ ॥

सर्वा खनिप्रिया काम्या कमला काञ्चनी रमा ।
धूम्रा कपालिनी वामा कुरुकुल्ला कलावती ॥ १५ ॥

याम्याऽऽग्नेयी धरा धन्या धर्मिणी ध्यानिनी ध्रुवा ।
धृतिर्लक्ष्मीर्जया तुष्टिः शक्तिर्मेधा तपस्विनी ॥ १६ ॥

वेधा जया कृतिः कान्तिः स्वाहा शान्तिर्दमा रतिः ।
लज्जा मतिः स्मृतिर्निद्रा तन्त्रा गौरी शिवा स्वधा ॥ १७ ॥

चण्डी दुर्गाऽभया भीमा भाषा भामा भयानका ।
भूदारा भयहा भीरुर्भैरवी भङ्गरा भटी ॥ १८ ॥

घुर्घुरा घोषणा घोरा घोषिणी घोणसम्युता ।
घनाघना घर्घरा च घोणयुक्ताऽघनाशिनी ॥ १९ ॥

पूर्वाग्नेयी यातु याम्या वायव्युत्तरवारुणी ।
ऐशान्यूर्ध्वाधःस्थिता च पृष्ठदक्षाग्रवामगा ॥ २० ॥

हृन्नाभिब्रह्मरन्ध्रार्कस्वर्गपातालभूमिगा ।
ऐं श्रीः ह्रीः क्लीं तीर्थगतिः प्रीतिर्धीर्गीः कलाऽव्यया ॥ २१ ॥

ऋग्यजुः सामरूपा च परा पोत्रिण्युदुम्बरा ।
गदासिशक्तिचापेषुशूलचक्रर्ष्टिधारिणी ॥ २२ ॥

जरती युवती बाला चतुरङ्गबलोत्कटा ।
सत्याक्षरा निधिर्नेत्री धात्री पोत्री परा पटुः ॥ २३ ॥

क्षेत्रज्ञा कम्पिनी ज्येष्ठा दुराधर्षा धुरन्धरा ।
मालिनी मानिनी माता माननीया मनस्विनी ॥ २४ ॥

मदोत्कटा मन्युकरी मनुरूपा मनोजवा ।
मेदस्विनी मद्यरता मधुपा मङ्गलाऽमरा ॥ २५ ॥

माया माताऽऽमयहरी मृडानी महिला मृतिः ।
महादेवी मोहहरी मञ्जुर्मृत्युञ्जयाऽमला ॥ २६ ॥

मांसला मानवा मूला महारात्रिर्मदालसा ।
मृगाङ्का मेनका मान्या महिषघ्नी मदन्तिका ॥ २७ ॥

मूर्छामोहमृषामोघामदमृत्युमलापहा ।
सिंहर्क्षमहिषव्याघ्रमृगक्रोडानना धुनी ॥ २८ ॥

धरिणी धारिणी धेनुर्धरित्री धावनी धवा ।
धर्मध्वना ध्यानपरा धनधान्यधराप्रदा ॥ २९ ॥

पापदोषरिपुव्याधिनाशिनी सिद्धिदायिनी ।
कलाकाष्ठाक्षमापक्षाहस्त्रुटिश्वासरूपिणी ॥ ३० ॥

समृद्धा सुभुजा रौद्री राधा रागा रमारणिः ।
रामा रतिप्रिया रुष्टा रक्षिणी रविमध्यगा ॥ ३१ ॥

रजनी रमणी रेवा रङ्किनी रञ्जिनी रमा ।
रोषा रोषवती रूक्षा करिराज्यप्रदा रता ॥ ३२ ॥

रूक्षा रूपवती रास्या रुद्राणी रणपण्डिता ।
गङ्गा च यमुना चैव सरस्वतिस्वसूर्मधुः ॥ ३३ ॥

गण्डकी तुङ्गभद्रा च कावेरी कौशिकी पटुः ।
कट्वोरगवती चारा सहस्राक्षा प्रतर्दना ॥ ३४ ॥

सर्वज्ञा शाङ्करी शास्त्री जटाधारिण्ययोरदा ।
यावनी सौरभी कुब्जा वक्रतुण्डा वधोद्यता ॥ ३५ ॥

चन्द्रापीडा वेदवेद्या शङ्खिनी नीललोहिता ।
ध्यानातीताऽपरिच्छेद्या मृत्युरूपा त्रिवर्गदा ॥ ३६ ॥

अरूपा बहुरूपा च नानारूपा नतानना ।
वृषाकपिर्वृषारूढा वृषेशी वृषवाहना ॥ ३७ ॥

वृषप्रिया वृषावर्ता वृषपर्वा वृषाकृतिः ।
कोदण्डिनी नागचूडा चक्षुष्या परमार्थिका ॥ ३८ ॥

दुर्वासा दुर्गहा देवी दुरावासा दुरारिहा ।
दुर्गा राधा दुःखहन्त्री दुराराध्या दवीयसी ॥ ३९ ॥

दुरावासा दुष्प्रहस्ता दुष्प्रकम्पा दुरूहिणी ।
सुवेणी रमणी श्यामा मृगव्याधार्घतापिनी ॥ ४० ॥

उग्रा तार्क्षी पाशुपती कौणपी कुणपाशना । [दुर्गा]
कपर्दिनी कामकामा कमनीया कलोज्ज्वला ॥ ४१ ॥

कासावहृत्कारकानी कम्बुकण्ठी कृतागमा ।
कर्कशा कारणा कान्ता कल्पाऽकल्पा कटङ्कटा ॥ ४२ ॥

श्मशाननिलया भिन्ना गजारुढा गजापहा ।
तत्प्रिया तत्परा राया स्वर्भानुः कालवञ्चिनी ॥ ४३ ॥

शाखा विशाखा गोशाखा सुशाखा शेषशाखिनी ।
व्यङ्गा शुभाङ्गा वामाङ्गा नीलाङ्गाऽनङ्गरूपिणी ॥ ४४ ॥

साङ्गोपाङ्गा च सारङ्गा सुभाङ्गा रङ्गरूपिणी ।
भद्रा सुभद्रा भद्राक्षी सिंहिका विनताऽदितिः ॥ ४५ ॥

हृद्याऽवद्या सुपद्या च गद्यपद्यप्रिया प्रसूः ।
चर्चिका भोगवत्यम्बा सारसी शबरी नटी ॥ ४६ ॥

योगिनी पुष्कलाऽनन्ता परा साङ्ख्या शची सती ।
निम्नगा निम्ननाभिश्च सहिष्णुर्जागृती लिपिः ॥ ४७ ॥

दमयन्ती दमी दण्डोद्दण्डिनी दारदायिका ।
दीपिनी दाविनी धात्री दक्षकन्या दम्या दरत् ॥ ४८ ॥

दाहिनी द्रविणी दर्वी दण्डिनी दण्डनायिका ।
दानप्रिया दोषहन्त्री दुःखदारिद्र्यनाशिनी ॥ ४९ ॥

दोषदा दोषकृद्दोग्ध्री दोहती देविकाऽधना ।
दर्वीकरी दुर्वलिता दुर्युगाऽद्वयवादिनी ॥ ५० ॥

चराचराऽनन्तवृष्टिरुन्मत्ता कमलाऽलसा ।
तारिणी तारकान्तारा परमात्माब्जलोचना ॥ ५१ ॥

इन्दुर्हिरण्यकवचा व्यवस्था व्यवसायिका ।
ईशनन्दा नदी नागी यक्षिणी सर्पिणी वरी ॥ ५२ ॥

सुधा सुरा विश्वसहा सुवर्णाङ्गदधारिणी ।
जननी प्रीतिभागेशी साम्राज्ञी संविदुत्तमा ॥ ५३ ॥

अमेयाऽरिष्टदमनी पिङ्गला लिङ्गधारिणी ।
चामुण्डा प्लाविनी हाला बृहज्ज्योतिरुरुक्रमा ॥ ५४ ॥

सुप्रतीका च सुग्रीवा हव्यवाहा प्रलापिनी ।
नभस्या माधवी ज्येष्ठा शिशिरा ज्वालिनी रुचिः ॥ ५५ ॥

शुक्ला शुक्रा शुचा शोका शुकी भेकी पिकी बकी ।
पृषदश्वा नभोयोनिः सुप्रतीका विभावरी ॥ ५६ ॥

गर्विता गुर्विणी गण्या गुरुर्गुरुधरी गया ।
गन्धर्वी गणिका गुन्द्रा गारुडी गोपिकाऽग्रगा ॥ ५७ ॥

गणेशी गामिनी गन्ता गोपतिर्गन्धिनी गवी ।
गर्जिता गाननी गोना गोरक्षा गोविदां गतिः ॥ ५८ ॥

ग्राथिकी ग्रथिकृद्गोष्ठी गर्भरूपा गुणैषिणी ।
पारस्करी पाञ्चनदा बहुरूपा विरूपिका ॥ ५९ ॥

ऊहा व्यूहा दुरूहा च सम्मोहा मोहहारिणी ।
यज्ञविग्रहिणी यज्ञा यायजूका यशस्विनी ॥ ६० ॥

अग्निष्टोमाऽत्यग्निष्टोमा वाजपेयश्च षोडशी ।
पुण्डरीकाऽश्वमेधश्च राजसूयश्च नाभसः ॥ ६१ ॥

स्विष्टकृद्बहुसौवर्णो गोसवश्च महाव्रतः ।
विश्वजिद्ब्रह्मयज्ञश्च प्राजापत्यः शिलायवः ॥ ६२ ॥

अश्वक्रान्ता रथक्रान्ता विष्णुक्रान्ता विभावसुः ।
सूर्यक्रान्ता गजक्रान्ता बलिभिन्नागयज्ञकः ॥ ६३ ॥

सावित्री चार्धसावित्री सर्वतोभद्रवारुणा ।
आदित्यामय गोदोह गवामय मृगामया ॥ ६४ ॥

सर्पमयः कालपिञ्जः कौण्डिन्योपनागाहलः ।
अग्निविद्द्वादशाहस्वोपांशुः सोम विधो हनः ॥ ६५ ॥

अश्वप्रतिग्रहो बर्हिरथोऽभ्युदय ऋद्धिराट् ।
सर्वस्वदक्षिणो दीक्षा सोमाख्या समिदाह्वयः ॥ ६६ ॥

कठायनश्च गोदोहः स्वाहाकारस्तनूनपात् ।
दण्डा पुरुष मेधश्च श्येनो वज्र इषुर्यमः ॥ ६७ ॥

अङ्गिराः कङ्कभेरुण्डा चान्द्रायणपरायणा ।
ज्योतिष्टोमः गुदो दर्शो नन्द्याख्यः पौर्णमासिकः ॥ ६८ ॥

गजप्रतिग्रहो रात्रिः सौरभः शाङ्कलायनः ।
सौभाग्यकृच्च कारीषो बैदलायनरामठौ ॥ ६९ ॥

शोचिष्कारी नाचिकेतः शान्तिकृत्पुष्टिकृत्तथा ।
वैनतेयोच्चाटनौ च वशीकरण मारणे ॥ ७० ॥

त्रैलोक्यमोहनो वीरः कन्दर्पबलशातनः ।
शङ्खचूडो गजच्छायो रौद्राख्यो विष्णुविक्रमः ॥ ७१ ॥

भैरवः कवहाख्यश्चावभृथोऽष्टकपालकः ।
श्रौषट् वौषट् वषट्कारः पाकसंस्था परिश्रुती ॥ ७२ ॥

चयनो नरमेधश्च कारीरी रत्नदानिका ।
सौत्रामणी च भारुन्दा बार्हस्पत्यो बलङ्गमः ॥ ७३ ॥

प्रचेताः सर्वसत्रश्च गजमेधः करम्भकः ।
हविःसंस्था सोमसंस्था पाकसंस्था गरुत्मती ॥ ७४ ॥

सत्यसूर्यश्चमसः स्रुक् स्रुवोलूखल मेक्षणी ।
चपलो मन्थनी मेढी यूपः प्राग्वंशकुञ्चिका ॥ ७५ ॥

रश्मिरंशुश्च दोभ्यश्च वारुणोदः पविः कुथा ।
आप्तोर्यामो द्रोणकलशो मैत्रावरुण आश्विनः ॥ ७६ ॥

पात्नीवतश्च मन्थी च हारियोजन एव च ।
प्रतिप्रस्थानशुक्रौ च सामिधेनी समित्समा ॥ ७७ ॥

होताऽध्वर्युस्तथोद्गाता नेता त्वष्टा च योत्रिका ।
आग्नीध्रोऽच्छावकाष्टावग्ग्रावस्तुत्प्रतर्दकः ॥ ७८ ॥

सुब्रह्मण्यो ब्राह्मणश्च मैत्रावरुणवारुणौ ।
प्रस्तोता प्रतिप्रस्थाता यजमानो ध्रुवन्त्रिका ॥ ७९ ॥

आमिक्षा पृषदाज्यं च हव्यं कव्यं चरुः पयः ।
जुहुद्घ्रावोपभृद्ब्रह्मा त्रयी त्रेता तरस्विनी ॥ ८० ॥

पुरोडाशः पशूकर्षः प्रोक्षणी ब्रह्मयज्ञिनी ।
अग्निजिह्वा दर्भरोमा ब्रह्मशीर्षा महोदरी ॥ ८१ ॥

अमृतप्राशिका नारायणी नग्ना दिगम्बरा ।
ओङ्कारिणी चतुर्वेदरूपा श्रुतिरनुल्बणा ॥ ८२ ॥

अष्टादशभुजा रम्भा सत्या गगनचारिणी ।
भीमवक्त्रा महावक्त्रा कीर्तिराकृष्णपिङ्गला ॥ ८३ ॥

कृष्णमूर्धा महामूर्धा घोरमूर्धा भयानना ।
घोरानना घोरजिह्वा घोररावा महाव्रता ॥ ८४ ॥

दीप्तास्या दीप्तनेत्रा च चण्डप्रहरणा जटी ।
सुरभी सौलभी वीची छाया सन्ध्या च मांसला ॥ ८५ ॥

कृष्णा कृष्णाम्बरा कृष्णशार्ङ्गिणी कृष्णवल्लभा ।
त्रासिनी मोहिनी द्वेष्या मृत्युरूपा भयापहा ॥ ८६ ॥

भीषणा दानवेन्द्रघ्नी कल्पकर्ता क्षयङ्करी ।
अभया पृथिवी साध्वी केशिनी व्याधिजन्महा ॥ ८७ ॥

अक्षोभ्याऽऽह्लादिनी कन्या पवित्रा रोपिणी शुभा ।
कन्यादेवी सुरादेवी भीमादेवी मदन्तिका ॥ ८८ ॥

शाकम्भरी महाश्वेता धूम्रा धूम्रेश्वरीश्वरी ।
वीरभद्रा महाभद्रा महादेवी महासुरी ॥ ८९ ॥

श्मशानवासिनी दीप्ता चितिसंस्था चितिप्रिया ।
कपालहस्ता खट्वाङ्गी खड्गिनी शूलिनी हली ॥ ९० ॥

कान्तारिणी महायोगी योगमार्गा युगग्रहा ।
धूम्रकेतुर्महास्यायुर्युगानां परिवर्तिनी ॥ ९१ ॥

अङ्गारिण्यङ्कुशकरा घण्टावर्णा च चक्रिणी ।
वेताली ब्रह्मवेताली महावेतालिका तथा ॥ ९२ ॥

विद्याराज्ञी मोहराज्ञी महाराज्ञी महोदरी ।
भूतं भव्यं भविष्यं च साङ्ख्यं योगस्तपो दमः ॥ ९३ ॥

अध्यात्मं चाधिदैवं चाधिभूतांश एव च ।
घण्टारवा विरूपाक्षी शिखिविच्छ्रीचयप्रिया ॥ ९४ ॥

खड्गशूलगदाहस्ता महिषासुरमर्दिनी ।
मातङ्गी मत्तमातङ्गी कौशिकी ब्रह्मवादिनी ॥ ९५ ॥

उग्रतेजा सिद्धसेना जृम्भिणी मोहिनी तथा ।
जया च विजया चैव विनता कद्रुरेव च ॥ ९६ ॥

धात्री विधात्री विक्रान्ता ध्वस्ता मूर्छा च मूर्छनी ।
दमनी धर्मिणी दम्या छेदिनी तापिनी तपी ॥ ९७ ॥

बन्धिनी बाधिनी बन्धा बोधातीता बुधप्रिया ।
हरिणी हारिणी हन्त्री धरिणी धारिणी धरा ॥ ९८ ॥

विसाधिनी साधिनी च सन्ध्या सङ्गोपनी प्रिया ।
रेवती कालकर्णी च सिद्धिर्लक्ष्मीररुन्धती ॥ ९९ ॥

धर्मप्रिया धर्मरतिः धर्मिष्ठा धर्मचारिणी ।
व्युष्टिः ख्यातिः सिनीवाली कुहूः ऋतुमती मृतिः ॥ १०० ॥

त्वाष्ट्री वैरोचनी मैत्री नीरजा कैटभेश्वरी ।
भ्रमणी भ्रामणी भ्रामा भ्रमरी भ्रामरी भ्रमा ॥ १०१ ॥

निष्कला कलहा नीता कौलाकारा कलेबरा ।
विद्युज्जिह्वा वर्षिणी च हिरण्याक्षनिपातिनी ॥ १०२ ॥

जितकामा कामृगया कोला कल्पाङ्गिनी कला । [कामगमा]
प्रधाना तारका तारा हितात्मा हितभेदिनी ॥ १०३ ॥

दुरक्षरा परब्रह्म महादाना महाहवा ।
वारुणी व्यरुणी वाणी वीणा वेणी विहङ्गमा ॥ १०४ ॥

मोदप्रिया मोदकिनी प्लवनी प्लाविनी प्लुतिः ।
अजरा लोहिता लाक्षा प्रतप्ता विश्वभोजिनी ॥ १०५ ॥

मनो बुद्धिरहङ्कारः क्षेत्रज्ञा क्षेत्रपालिका ।
चतुर्वेदा चतुर्भारा चतुरन्ता चरुप्रिया ॥ १०६ ॥

चर्विणी चोरिणी चारी शाङ्करी चर्मभैरवी ।
निर्लेपा निष्प्रपञ्चा च प्रशान्ता नित्यविग्रहा ॥ १०७ ॥

स्तव्या स्तवप्रिया व्याला गुरुराश्रितवत्सला ।
निष्कलङ्का निरालम्बा निर्द्वन्द्वा निष्परिग्रहा ॥ १०८ ॥

निर्गुणा निर्मला नित्या निरीहा निरघा नवा ।
निरिन्द्रिया निराभासा निर्मोहा नीतिनायिका ॥ १०९ ॥

निरिन्धना निष्कला च लीलाकारा निरामया ।
मुण्डा विरूपा विकृता पिङ्गलाक्षी गुणोत्तरा ॥ ११० ॥

पद्मगर्भा महागर्भा विश्वगर्भा विलक्षणा ।
परमात्मा परेशानी परा पारा परन्तपा ॥ १११ ॥

संसारसेतुः क्रूराक्षी मूर्छामुक्ता मनुप्रिया । [मग्ना]
विस्मया दुर्जया दक्षा दनुहन्त्री दयालया ॥ ११२ ॥

परब्रह्माऽऽनन्दरूपा सर्वसिद्धिविधायिनी । ओम् ।
एवमुड्डामरातन्त्रान्मयोद्धृत्य प्रकाशितम् ॥ ११३ ॥

गोपनीयं प्रयत्नेन नाख्येयं यस्य कस्यचित् ।
यदीच्छसि द्रुतं सिद्धिमैश्वर्यं चिरजीविताम् ॥ ११४ ॥

आरोग्यं नृपसम्मानं दानान्यस्य तु कीर्तयेत् ।
नाम्नां सहस्रं वाराह्याः मया ते समुदीरितम् ॥ ११५ ॥

यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ।
अश्वमेधसहस्रस्य वाजपेयशतस्य च ॥ ११६ ॥

पुण्डरीकायुतस्यापि फलं पाठात् प्रजायते ।
पठतः सर्वभावेन सर्वा स्युः सिद्धयः करे ॥ ११७ ॥

जायते महदैश्वर्यं सर्वेषां दयितो भवेत् ।
घनसारायते वह्निरगाधोब्धिः कणायते ॥ ११८ ॥

सिद्धयश्च तृणायन्ते विषमप्यमृतायते ।
हारायन्ते महासर्पाः सिंहः क्रीडामृगायते ॥ ११९ ॥

दासायन्ते महीपाला जगन्मित्रायतेऽखिलम् ।
तस्मान्नाम्नां सहस्रेण स्तुता सा जगदम्बिका ।
प्रयच्छत्यखिलान् कामान् देहान्ते परमां गतिम् ॥ १२० ॥

इति उड्डामरतन्त्रे श्री आदिवाराही सहस्रनाम स्तोत्रम् ॥


Sri Varahi Stotras – श्री वाराही स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright 2019-2025 © sanatanadharm.com All Rights Reserved . Made in India.